बालमोदिनी

ताराचन्द-वख्तमलनामानौ गुरुहरिगोविन्दशिष्यौ गुरवे अश्वौ उपायनीकर्तुं स्वस्थानात् यदा प्रस्थितवन्तौ तदा मध्यमार्गे यवनराजः शाहजहानः अश्वौ वशीकृत्य तौ शिष्यौ ताडयित्वा च प्रेषितवान् । प्रवृत्तं सर्वं विदित्वा अन्यः कश्चन शिष्यः विधिचन्दः अश्वौ आनेतुं प्रतिज्ञाम् अकरोत् । शूरः उपायचतुरः च सः विधिचन्दः केनोपायेन अश्वौ अपहृत्य गुरोः हरिगोविन्दवर्यस्य पुरतः प्रत्यक्षः भवति इति पश्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Tarachand and Vakhtmal, two disciples of Guru Harigovind, set out with the intention of gifting two horses to their Guru. On the way, Shah Jahan seized their horses, beat them, and sent them back. Upon learning of this incident, another disciple, Vidhichand, made a vow to bring the horses back. Let us hear the story of how the clever and brave Vidhichand successfully brings back the horses.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.