बालमोदिनी

आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म ।  अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् यदा आदिशत् तदा स्वयं देवः नापितवेषं धृत्वा राज्ञः क्षौरम्, शरीरमर्दनं च अकरोत् ।  प्रवृत्तं सर्वं ज्ञात्वा नापितेन भगवतः दर्शनं प्रार्थ्यते । सन्तुष्टः भगवान् प्रत्यक्षः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

There was once a barber who became deeply engrossed in meditation. Noticing his absence, the king grew angry and sent soldiers to fetch him. Terrified, the barber's wife lied, saying her husband was not at home. However, the suspicious soldiers accused her of deceit and claimed that the barber was indeed present at home. Upon hearing this, the enraged king commanded the soldiers to bring the barber to him immediately. At that moment, God Himself, disguised as the barber, appeared before the king and performed his shaving and body massage. When the truth of the divine intervention was revealed, the barber humbly prayed for God's darshan. Pleased, God manifested before him.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.