बालमोदिनी

कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृक्षस्य अधः चिन्मुद्रां‌ धृत्वा उपाविशत् । वैकुण्ठतः प्रत्यागच्छन्तः सनकादयः शिवस्य दर्शनसमनन्तरं त्रिभिः प्रदक्षिणैः तं नमस्कृत्य पादमूले उपविश्य समाधिस्थाः सन्तः आत्मज्ञानवन्तः जाताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Narada, noticing his brothers’ desire for self-realization, advised them to find a wise teacher to achieve liberation. The Sanakas visited Vaikuntha, where they saw Lord Vishnu with Goddess Lakshmi and the splendor of his realm. However, they wondered how self-realization was possible amidst such luxury. Understanding their quest, Lord Shiva appeared as Dakshinamurti, seated under a banyan tree in silence, symbolizing wisdom. When the Sanakas returned and saw Dakshinamurti, they bowed to him, meditated, and in his presence, achieved self-realization and ultimate truth.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.