बालमोदिनी

काचित् विधवा पुत्रेण सह दारिद्र्यमयं जीवनं यापयति स्म । कदाचित् चुल्ल्याम् अग्निः सर्वथा निर्विण्णः आसीत् । पार्श्वस्थधनिकगृहं गत्वा तप्ताङ्गारान् आनय इति पुत्रं प्रेषितवती माता। पुत्रः गत्वा सेवकं तप्ताङ्गारान् अयाचत । किन्तु सः सेवकः बालकम् उपेक्षया पश्यन् अवदत् 'किं युतकेन तप्ताङ्गाराः नीयेरन् ? त्वया युतकमपि न धृतम्' इति । क्षणं विचिन्त्य सः बालः समीपे स्थितेन जलेन हस्तौ आर्द्रीकृत्य काष्ठभस्म अञ्जलौ धृत्वा 'तप्ताङ्गारान् अञ्जलौ निक्षिपतु' इति सेवकम् अवदत् । एतत् सर्वं दृष्टवता धनिकेन बालकास्य गृहं गत्वा 'पुत्रः बुद्धिमान् अस्ति । अस्य शिक्षणव्यवस्था मया करिष्यते' इति उक्त्म् । सः बालः एव गच्छता कालेन न्यायशास्त्रे महत् ज्ञानं सम्पाद्य ख्यातिं प्राप्तवान् । तस्य नाम अस्ति 'रघुनाथशिरोमणिः' ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A poor widow sent her son to fetch burning embers from a wealthy neighbor. The servant mocked him for not carrying a vessel. The boy cleverly moistened his hands, filled them with ash, and asked the servant to place the embers there. Impressed by his ingenuity, the wealthy man sponsored his education. In time, he boy became a renowned scholar of law, known as Raghunātha Śiromaṇi.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.