बालमोदिनी

पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वायुविहारसमये मन्त्री पक्षिणः कलरवं श्रद्धया कर्णौ दत्त्वा श्रोतुम् आरब्धवान् । यदा महाराजः अपृच्छत् तदा मन्त्री 'अहं पक्षिणः भाषां जानामि' इत्युक्त्वा तस्य मनसि यत् राज्ञे बोधनीयम् इति आसीत् तत् सर्वं पक्षिणः सम्भाषणरूपेण अनूदितवान् । महाराजस्य ज्ञानोदयः अभवत् । 'सर्वे मिलित्वा च राज्यं सुभिक्षं करिष्यामः' इति उक्त्वा तं मन्त्रिणं प्रधानमन्त्रिणं कृत्वान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a great king became indifferent to governance, leading to the kingdom's decline over time. One of his ministers decided that the king must somehow be made aware of the situation. One evening, during a walk, the minister attentively listened to the chirping of birds. When the king asked about it, the minister claimed, "I understand the language of birds" and then conveyed everything the king needed to realize in the form of a bird’s conversation. This awakened the king’s wisdom. Declaring, "Together, we shall restore prosperity to the kingdom," he appointed the minister as the chief advisor.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.