बालमोदिनी

टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति  इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे हुम्' इत्येतं मन्त्रं पुनः पुनः जप इति वदति ।  तेन सह कथं मानवेन कुञ्चिकया रहस्यम् उद्घाटनीयम् इति सर्वं वदति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In Tibet, people, seeing a saintly person mostly residing in silence, thought that he knew all secrets. One day, a young man approached the saint to know the secret, expressing his desire. At first, the saint said that he didn't know any secrets. However, when the young man insisted repeatedly, the saint, thinking he must be sent away somehow, advised him to chant the mantra 'Om Mani Padme Hum' repeatedly. Along with that, the saint explained how a man could use a key to unlock secrets. It is a profound story with a mix of mystery and wisdom!

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.