बालमोदिनी

कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the fame of a certain sage's penance spread in the heavens. A discussion began among the gods in heaven. To break his penance, one of the gods descended to earth and observed the sage's conduct very carefully. After devising a plan, he managed to cause the sage's penance to be broken in a short time. How this happened, we will learn by hearing the story.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.