बालमोदिनी

अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः ।  किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश्रुधारया क्षालितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the city of Amaravati, there was an ashram where many disciples studied. One of the disciples was involved in theft. He was caught stealing twice by the other disciples. They all requested the guru to expel him from the ashram. However, the guru did not approve of his expulsion. He said, "If he is expelled from the ashram, who will call him and teach him?" Hearing these words, the thief disciple's mind changed and held the guru's feet.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.