बालमोदिनी

भगवान् बुद्धः पूर्वस्मिन् जन्मनि बोधिसत्त्वनामकः क्रीडनकविक्रेता आसीत् । अन्यः अपि विक्रेता आसीत् यः स्वभावेन दुष्टः वञ्चकः च । कदाचित् दुष्टः क्रीडनकविक्रेता एकस्य गृहस्य पुरतः आगतः तदा काचित् बाला 'क्रीडनकं दापयतु' इति वृद्धाम् अपृच्छत् ।  वृद्धा एकां पुरातनीं स्थालिकाम् आनीय स्थालिकायाः विनिमयेन एकं क्रीडनकं यच्छ इति क्रीडनकविक्रेतारम् अयाचत । 'तुच्छम् अपि क्रीडनकं न प्राप्यते अनेन स्थालिकाविनिमयेन । अन्यत् पात्रं वा धनं वा आनयतु' इति उक्त्वा ततः गतः । परेद्युः यदा बोधिसत्त्वः क्रीडनविक्रयणार्थम् आगतः सा वृद्धा तम् अपि अहूय स्थालिकां दर्शितवती । सुर्वर्णमयीं स्थालिकां दृष्ट्वा बोधिसत्त्वः सर्वाणि अपि क्रीडनकानि, स्वसमीपस्थं सर्वमपि धनं च दत्त्वा गतः । वञ्चकः विक्रेता प्रवृत्तं सर्वं ज्ञात्वा शोकमग्नः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a previous birth, the Buddha was a toy-seller named Bodhisattva. Another seller was wicked and deceitful. One day, the deceitful seller came before a house where a little girl asked her grandmother for a toy. The grandmother brought out an old bowl and requested a toy in exchange. The wicked seller scoffed, saying, “Not even a worthless toy can be given for this. Bring another vessel or money,” and left. The next day, Bodhisattva came selling toys. The grandmother showed him the same bowl. Seeing that it was made of gold, Bodhisattva gave her all his toys and all his money, then departed. When the deceitful seller later learned what had happened, he was overcome with grief.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.