बालमोदिनी

कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । साक्षात् सिंहः यदा शावकस्य दृढं भक्तिभावं अपश्यत् तदा गजम् आदिशत् 'मेषशावकं पृष्ठे आरोप्य वनविहारं कारयतु यत्र वृक्षाणां मृदूनि पर्णानि, स्वादूनि फलानि च खादेत्' इति । वनराजभक्तेः एतत् पारितोषिकम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, in a forest region, a lamb got separated from its flock while grazing. As it wandered alone in search of its way home, it spotted the beautifully marked footprints of the king of the jungle—the lion—on the sandy banks of a stream. The lamb, filled with deep reverence and devotion, focused intently on the footprints. Observing the lamb's unwavering devotion, a jackal, a wolf, and a tiger approached the lamb but then fled, sensing its sincere admiration for the lion. When the lion himself noticed the lamb's steadfast devotion, he commanded an elephant, saying, ‘Carry this lamb on your back and let it roam freely in the forest where it can feed on the soft leaves of trees and sweet fruits’. This was the reward for the lamb's deep devotion to the king of the jungle.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.