बालमोदिनी

एषा कथा पञ्चदशे अथवा षोडशे शतके घटिता, यत्र श्रीकृष्णचैतन्यनामकः कश्चन मेधावी न्यायशास्त्रविद् भागवतभक्तः वैष्णवाचार्यः अभवत् । सः चैतन्यमहाप्रभुः इत्यपि प्रसिद्धः । तस्मिन्काले वासुदेवनामकः कश्चन कृष्णभक्तः कुष्ठरोगेण पीडितः आसीत् । एकदा चैतन्यमहाप्रभुः दक्षिणभारतयात्रां कुर्वन् कूर्मनामकस्य ब्राह्मणस्य गृहे वासं कृतवान् । श्रुतवार्तः वासुदेवः परिश्रमेण तत्र आगतः, किन्तु महाप्रभुः तावता ततः निर्गतः आसीत् । वासुदेवः खिन्नः भूत्वा मूर्च्छितः अभवत् । सर्वज्ञः महाप्रभुः वासुदेवस्य भावं ज्ञात्वा शीघ्रं प्रत्यागत्य तम् आलिङ्गितवान् । तस्य स्पर्शेन वासुदेवस्य व्याधिः अपगतः, सः नूतनं निर्मलं देहं प्राप्तवान् च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This story took place in the 15th or 16th century, during the time of Shri Krishna Chaitanya, a brilliant scholar of Nyaya (logic), a devotee of the Bhagavata, and a revered Vaishnava acharya. He was also widely known as Chaitanya Mahaprabhu. At that time, there was a devotee named Vasudeva who suffered from leprosy. Once, while Chaitanya Mahaprabhu was traveling through South India, he stayed at the home of a Brahmin named Kurma. Hearing of his arrival, Vasudeva made a strenuous effort to reach him, but by the time he arrived, Mahaprabhu had already departed. Heartbroken, Vasudeva fainted from grief. Being omniscient, Mahaprabhu sensed Vasudeva’s deep devotion and quickly returned to embrace him. By the divine touch of Mahaprabhu, Vasudeva was cured of his disease and received a renewed, pure body. This tale beautifully illustrates the transformative power of devotion and divine grace.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.