बालमोदिनी

१९६५ तमे वर्षे भारतपाकिस्थानयोः मध्ये युद्धं प्रचलत् अस्ति । लेफ्टिनेण्ट तारापोरः अस्य सेनानीः आसीत् । केषाञ्चन दिनानामनन्तरं फिल्लोरनगरस्य समीपे स्थितानि शत्रुयानानि नाशितानि । पाकिस्थानस्य  एका क्षिपणिः तारापोरस्य युद्धवाहनस्य विध्वंसम् अकरोत् । तारापोरः व्रणितः जातः चेदपि चिकित्साम् उपेक्ष्य अग्रे गत्वा वीरावेशेन युद्धं कृतवान् । अन्यथा गतिः नास्ति इति शत्रवः पलायनं कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In 1965, war was ongoing between India and Pakistan. Lieutenant Tarapore was a commander in this battle. After several days, enemy tanks near Phillaur city were destroyed. A Pakistani missile struck Tarapore’s battle tank, injuring him. Despite his wounds, he ignored medical aid and continued fighting bravely. Seeing no other option, the enemy forces fled.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.