बालमोदिनी

कस्यचन अधिकारिणः मुहुः स्थानान्तरस्य आदेशः आगतः | अन्यत् नगरं प्रति गमनावसरे भवन्ति कार्याणि बहूनि | कार्यालयस्य कोऽपि कर्मचारी तस्य साहाय्यार्थं न आगतः | रेल्वेस्थानकं प्रति सर्वाणि वस्तूनि तेन स्वयं नीतानि | आप्रच्छानार्थम् अपि कोऽपि कार्यालयीयः जनः न आगतः इति विषादेन मनसि एव अहसत् सः अधिकारी | तावता कश्चन सेवकः पुष्पमालाहस्तः सन् वेगेन स्थानकम् आगच्छत् | अधिकारिणः प्रीतिः उपकारः च न विस्मृतः तेन सेवकेन | अधिकारिणः हृदयं सुगन्धपूर्णं जातम् |
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

An officer was transferred to another city. There was a lot of work to do before leaving, but no one from his office came to help him. He carried all his things to the railway station by himself. He felt sad because no colleague had come to say goodbye. Just then, a servant came running to the station with a flower garland. The servant had not forgotten the officer’s kindness and help. This made the officer very happy.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.