बालमोदिनी

प्रलयकाले सर्वेषामपि चराचरजन्तूनां किमपि आश्रयस्थानम् अपेक्षितं भवति । अतः ते गोमातरं शरणम् अगछन् । भगवतः नारायणस्य पत्नी लक्ष्मीः अन्यं शरणं न गच्छामि इति नितरां गर्विता आसीत् । अन्ते सा कुतूहलेन द्रष्टुं गोलोकम् अगच्छत् । गोमाता निश्चिन्ततया स्थिता आसीत् । साक्षात् भगवान् विष्णुः अपि गोमातुः अङ्गम् आश्रित्य स्थितवान् आसीत् । तत् दृष्टवत्याः लक्ष्म्याः गर्वः अपगतः । सा अपि गोमातरं सम्प्रार्थ्य तस्याः शरीरम् आश्रितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At the time of the great dissolution, all living beings sought a safe refuge, and they turned to the sacred cow. Goddess Lakshmi, proud that she needed no shelter, later visited Goloka out of curiosity. There she saw that even Lord Vishnu had taken refuge in the divine cow. Realizing her pride, Lakshmi humbly prayed to the cow and sought shelter in her as well.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.