बालमोदिनी

'राजतरङ्गिणी' इत्यस्य श्रेष्ठस्य ग्रन्थस्य निर्माता काश्मीरदेशीयः कविः कल्हणः सर्वत्र ख्यातः किन्तु सः एकस्मिन् सामान्ये कुटीरे वसति स्म । कदाचित् उज्जयिनीतः आगतः पण्डितगणः कवेः वसतिविषयं दृष्ट्वा राज्ञः पुरतः स्वस्य असन्तोषं प्राकटयत् । राज्ञः अनुरोधेनापि सः कविः कस्यापि वस्तुनः स्वीकारं न अङ्गीकरोति इति पण्डिताः ज्ञातवन्तः । पण्डिताः यदा राज्ञा दत्तां सामग्रीं कवये अयच्छन् तदा कुपितः कविः राज्यत्यागं कर्तुम् ऐच्छत् । तदा पण्डिताः कवेः अपरिग्रहशीलतां दृष्ट्वा क्षमां अयाचन्त ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Kalhana, the famous author of the great work Rajatarangini, was a poet from Kashmir. However, he lived in a simple hut. Once, a group of scholars who had come from Ujjain saw his humble dwelling and expressed their displeasure before the king. Despite the king's request, the poet refused to accept any gifts from anyone. When the scholars gave him some items on the king's behalf, the poet, angered by their actions, decided to leave the kingdom. The scholars, seeing his refusal to accept gifts, asked for his forgiveness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.