कस्मिंश्चित् प्रवचने कश्चन पुरुषः महात्मानम् अपृच्छत् यत् जीवने कथं सर्वाः समास्याः निवार्य तृप्त्या जीवनं यापयितुं शक्यम् इति । तदा माहात्मना कांश्चन सजीवान् मण्डूकान् आनाय्य काञ्चित् तुलाम् अपि आनाय्य तेषां मण्डूकाननां भारं ज्ञात्वा वद इति उक्तम् । अल्पे एव काले तेन पुरुषेण ज्ञातं यत् मण्डूकानां तोलनं कियते क्लेशाय इति । तदा महात्मा अवदत् 'यथा मण्डूकाः एकत्र स्थापयितुं न शक्याः तथैव समस्यानां सर्वासां निवारणम् अपि न शक्यम् । उद्यमः, साहसः, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः इत्येते षट् गुणाः यदा अस्मासु स्युः तर्हि सर्वान् क्लेशान् निवार्य अग्रे गन्तुं शक्नुयाम वयम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain discourse, a man once asked a great soul: ‘In life, how is it possible to overcome all difficulties and live with contentment?’. Then the Mahatma brought some living frogs and a weighing scale, and asked the man to measure their weight. Within a short time, the man realized that weighing the frogs was troublesome. The Mahatma then said: ‘Just as frogs cannot be kept together in one place, in the same way, it is not possible to eliminate all problems at once. But when we possess six qualities—effort, courage, patience, intelligence, strength, and valor—then we can overcome all difficulties and move forward’.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.