बालमोदिनी

काचित् वृद्धा आसीत् यस्याः केऽपि बान्धवाः न आसन् । सा एकाकिनी वसति स्म । कदाचित् तस्याः दृष्टिशक्तिः क्षीणा अभवत् । अल्पेन एव काले सा किमपि द्रष्टुम् अशक्ता अभवत् । तां द्रष्टुम् आगतः चिकित्सकः दुष्टस्वभावकः आसीत् । सा वृद्धायाः वञ्चनां कर्तुम् अचिन्तयत् । किन्तु एषा वृद्धा अपि चतुरा आसीत् । सः चिकित्सकः वृद्धायाः चातुर्येण न्यायालये दण्डनम् अपि प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was an old woman who had no relatives and lived alone. One day her eyesight weakened, and soon she became unable to see at all. A physician came to examine her, but he was of wicked nature and planned to deceive her. However, the old woman was clever too. By her wit, the physician was punished in court.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.