बालमोदिनी

कदाचित् कश्चन याचकः युधिष्ठरं नमस्कृत्य शतं नाणकानि याचितवान् । 'श्वः दास्यामि' इत्युक्त्वा तं प्रेषितवान् युधिष्ठिरः । एतत् दृष्टवता स्मितहासेन भीमसेनेन विजयघण्टा वादिता । विजयस्य कारणं किम् इति यदा युधिष्ठिरः अपृच्छत् तदा भीमसेनः अवदत् 'श्वः दास्यामि इत्युक्तस्य अर्थः यत् श्वः पर्यन्तं भवान् निश्चयेन जीविष्यति इति । मृत्योः उपरि एव दिनपर्यन्तकः विजयः किं सामान्यः ?’ इति । युधिष्ठिरः भीमेन उक्तस्य तात्पर्यम् अवगत्य लज्जितः सन् गच्छन्तं तं याचकः पुनः आहूय तस्मै शतं नाणकानि दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) 

One day, a beggar approached Yudhishthira, bowed to him, and requested a hundred coins. Yudhishthira told him, "I will give them tomorrow," and sent him away. Observing this, Bhima smiled and rang the victory bell. When Yudhishthira asked the reason for the celebration, Bhima replied, "By saying 'I will give tomorrow,' you are assuming with certainty that you will live until then. Is victory over death for a whole day such a small thing?" Realizing the deeper meaning behind Bhima’s words, Yudhishthira felt ashamed. He immediately called back the beggar and gave him the hundred coins without delay.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.