बालमोदिनी

शिवाजिः यद्यपि विनयशीलः, तथापि कदाचित् तस्य मनसि विचारः आगतः 'मया बहूनि प्रजाहितानि कार्याणि कृतानि । अतः प्रजाः सुखेन जीवन्ति । एवं च अहं प्रजापालने दक्षः अस्मि' इति । एवं चिन्तयतः तस्य मनसि अहङ्कारः उत्पन्नः । शिष्यस्य शिवाजेः अहङ्कारः कथमपि निवारणीयः इति  चिन्तितवान् गुरुः समर्थरामदासः । कदाचित् गुरुः शिवाजिं दर्शयति यत् सर्वजीविनामपि पालनपोषणकर्ता भगवान् एव । मनुष्याः तु केवलं निमित्तभूताः एव इति । तदा शिवाजिः स्वस्य दोषम् अवगतवान् । तस्य अहङ्कारः अपगतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Though Shivaji was humble, one day he thought to himself: ‘I have done many works for the welfare of the people. Because of me, they live happily. Thus I am skilled in ruling and protecting them.’ From such thoughts arose pride in his mind. His guru, Samarth Ramdas, considered that Shivaji’s pride must somehow be removed. One day the guru showed him that the true protector and sustainer of all beings is God alone, and that humans are merely instruments. Then Shivaji realized his fault, and his pride vanished.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.