ईश्वरचन्द्रविद्यासागरः समयपालने अतीव अनुशासितः अन्यस्मादपि तदेव अपेक्षते स्म । सः कस्याश्चित् सभायाः अध्यक्षत्वेन आहूतः सन् समयात् पूर्वमेव स्थानं प्राप्तवान् । सभास्थले आसन्दाः मलिनाः आसन् । स्वच्छताकर्मिणः नासन् इत्यतः सः त्वरया सम्मार्जनीं गृहीत्वा स्वयं स्वच्छताकार्यम् आरब्धवान् । एतद् दृष्ट्वा आयोजकाः लज्जिताः स्वच्छतायां संलग्नाः अभवन् । शीघ्रं सभास्थलं स्वच्छं जातम् । स्वस्य भाषणे, विद्यासागरवर्यः आत्मनिर्भरत्वस्य महत्त्वं प्रतिपादयन् अवदत् यत् कार्याणि निर्वर्तयितुं वयं अन्येषां प्रतीक्षां न कुर्याम, राष्ट्रं अपि आत्मनिर्भरं भवेत् । किमपि कार्यं क्षुद्रं वा महत् वा न भवति । प्रत्येकं जनः सर्वकार्यार्थं सर्वदा सज्जः भवेत् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ishwar Chandra Vidyasagar is disciplined in keeping time and expects others to do the same. When he was called to preside over a meeting, he arrived on the scene ahead of time. The place of the meeting chairs was dirty. He took a quick cleaning mop, and began cleaning himself. Seeing this, the organizers felt ashamed and indulged in cleanliness. The place was quickly cleaned up. In his address, Vidyasagar stressed the importance of self-reliance and said that we should not wait for others to perform the tasks and the nation should also be self-reliant. No work is small or big. Everyone should always be ready for everything.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.