बालमोदिनी

कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम् अकरोत् यत् कदापि जीवने शारीरकाकर्षणेन इन्द्रियाकर्षणेन वा प्रलोभितः न भविष्यामि इति । तत्पश्चात् सः संसारे वैराग्यं प्राप्य विरक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A handsome prince, ready for marriage, was traveling through a forest on horseback when he saw a beautiful young woman he wished to marry. The king brought her to the palace, but she initially rejected the proposal. After repeated requests from the prince, she eventually agreed but asked him to wait for a week. During that time, she subjected him to a test, leading to his profound realization. Upon gaining wisdom, the prince vowed never to be tempted by physical or sensory attractions again. He renounced worldly life and embraced detachment.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.