बालमोदिनी

कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं आनीय स्वहस्ताभ्यां तं भोजितवान् । अग्रिमेषु दिनेषु रसखानस्य कृष्णभक्तत्वं सर्वत्र ख्यातं जातम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A Muslim named Rasakhan, was traveling to Makkah along with his Guru. On the way, they reached Vrindavan. As they approached the Yamuna River, the sweet sound of a flute captured Rasakhan's heart. There, the beautiful Lord of Vrindavan appeared to him for a moment and disappeared. Wanting to see Him again, Rasakhan fasted for three days, chanting the name of Lord Krishna. On the third night, Lord Krishna appeared and fed Rasakhan with milk rice offered as naivedya. After that, Rasakhan's deep devotion to Lord Krishna became widely known.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.