बालमोदिनी

चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः‌ नाम राज्ञः करस्पर्शनेन सर्पः‌ स्वयं बहिः आगतवान् । न तु दष्टवान् । सः राजा अनन्तरकाले 'भक्तः कुलशेखरः' इति ख्यातः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Kulashekhara, the king of the Chera kingdom, a devotee of God and a noble person, would invite a scholar to his palace every day to listen to stories about the Lord. However, some of the king's ministers and queens, not wanting this, secretly placed Lord Shrirama’s idol's necklace in the scholar’s bag. They announced that the punishment for the scholar was to place his hand in a pot that contained a serpent. Just as the scholar tried to place his hand inside, the king himself placed his hand in the pot first. To everyone’s amazement, the serpent came out of the pot without biting the king. Later, the king became famous as Bhakta Kulashekhara.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.