बालमोदिनी

यदा पुष्करनगरनृपः कदाचित् रुग्णः जातः तदा राजपुरोहितः सूचयति यत् विपुलस्य सुवर्णस्य दानकरणेन राजा स्वस्थः भवितुम् अर्हति इति । तद्वदेव राजा दशकोटिसुवर्णमुद्राणां दानाय व्यवस्थां करोति । किन्तु मन्त्री नगराध्यक्षः च वञ्चनां कृत्वा अल्पम् एव धनराशिं प्रजाभ्यः दत्तवन्तौ । विपुलं दानं कृत्वा अपि यदा नृपः स्वास्थ्यं न प्राप्तवान् तदा सः सुवर्णस्य दानं योग्यरीत्या अभवत् उत न इति ज्ञातुं गुप्तचरान् प्रेषितवान् । गुप्तचरैः सर्वं ज्ञात्वा राजा मन्त्रिप्रभृतीन् सर्वान् कारागारे स्थापितवान् । पुनः राजा दशकोटिसुवर्णमुद्राः प्रजाभ्यः वितीर्य मासाभ्यन्तरे नीरोगः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When the king of Pushkar city fell ill at some point, the royal priest suggested that the king could recover by donating a large amount of gold. Following this, the king arranged for the donation of ten crore gold coins. However, the minister and the city administrator, through deceit, gave only a small amount to the citizens. Despite the significant donation, the king did not recover, so he sent spies to investigate whether the gold donation had been conducted properly. The spies uncovered everything, and the king imprisoned all those involved, including the minister. Subsequently, the king distributed the ten crore gold coins to the citizens, and within a month, he regained his health.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.