तमिळुनाडुदेशीयः विश्वनाथदासः स्वीयैः देशभक्तिगीतैः, नाटकैः, अभिनयैः च देशभक्तिम् जागरयति स्म । नाटकेषु 'वल्लीविवाहः' इति नाटके आङ्ग्लेयशासनं लक्षीकृत्य दासवर्यः गीतं गायति स्म येन कारणेन षट् मासान् संवत्सरान् वा यावत् कारागारवासः भवति स्म । कदाचित् दासवर्येण रङ्गं न प्रवेष्टव्यम् इति आङ्ग्लशासनेन आज्ञा कृता । तथापि वीरपुरुषः दासवर्यः रङ्गे निर्भयम् अगच्छत् । तस्मात् सः कारागारे स्थापितः । आङ्ग्लशासनं विरुद्ध्य दासवर्यः नवविंशतिवारं कारागृहम् अगच्छत् । १९४० तमे वर्षे डिसम्बरमासे सः गीतं गायन् पञ्चत्वं प्राप्नोत् । भारमातुः स्वतन्त्रतायै तदीयं जीवनपुष्पं समर्पितम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Viswanatha Das, a patriot from Tamil Nadu, awakened national spirit through his songs, plays, and performances. In one of his dramas titled Valli Vivaha, he sang a song targeting British rule, which led to his imprisonment for six months or even a year. At one point, the British authorities banned him from entering the stage. Yet, with fearless resolve, Viswanatha Das stepped onto the stage and was again imprisoned. In total, he was jailed nineteen times for opposing British rule. In December 1940, while singing a patriotic song, he passed away. His life was a fragrant offering to Mother India’s freedom.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.