बालमोदिनी

वयं सर्वे ईश्वरचन्द्रविद्यासागरं जानीमः एव । बाल्ये दरिद्रतायाः कारणेन सः शालां गन्तुम् अशक्नुवन् अन्येभ्यः बालेभ्यः अक्षराणि विज्ञाय अक्षराभ्यासं कृत्वा उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् । पिता उपवासादिकम् आचरन् पुत्रं विद्यालयं प्रति प्रेषितवान् । ग्रामविद्यालयस्य अध्ययनानन्तरं सः नगरीयविद्यालये सर्वेषां साहाय्येन विद्यार्थिवेतनादिप्राप्त्या च अध्ययनम् अनुवर्तितवान् । कलकत्तासंस्कृतविद्यालये पठन् सः व्याकरणे, साहित्ये, वेदान्ते च प्रावीण्यं प्राप्तवान् । तस्य वैदुष्यं दृष्ट्वा कलकत्ताविद्वन्मण्डली तस्मै 'विद्यासागरः' इति उपाधिं प्रादात् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
We all know Ishwar Chandra Vidyasagar. Due to poverty in his childhood, he could not attend school. He learned the alphabet from other children, practiced writing letters, and read used books to gain knowledge. His father fasted to send him to school. After studying at the village school, he continued his education in the city school with everyone's help and by receiving student scholarships. Studying at the Calcutta Sanskrit College, he excelled in grammar, literature, and Vedanta. Seeing his scholarship, the learned community of Calcutta awarded him the title "Vidyasagar" (Ocean of Knowledge).
23

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.