बालमोदिनी

कस्यचन वणिजः गृहे प्रभूतः कार्पासः अस्तीति ज्ञात्वा कश्चन चोरः तं चोरयितुम् आगतः । कार्पासस्य बन्धनाय यावत् वस्त्रं प्रसारितवान् तावता चतुरेण वणिजा जागरणं प्राप्य मन्दम् उत्थाय वस्त्रम् अपसारितम्  । कथञ्चिदपि कार्पासं नेतव्यमिति निश्चित्य स्वस्य युतकम् ऊरुकं च प्रसारितवान् यत् वणिजा अपसारितम् । चोरः निर्वस्त्रः जातः । ततः वणिक् गृहसदस्यान् जागरय्य चोरं बद्धवान् । एवं वणिजा स्वबुद्धिमत्तया चोरः गृहीतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A thief once learned that a merchant's house contained a large stock of cotton and arrived at the merchant's house. As he started spreading out a cloth to bundle the cotton, the clever merchant, who had been roused from his sleep, quietly removed the cloth. Determined to take the cotton at any cost, the thief then spread out his own shirt and trousers to tie up the cotton. Once again, the merchant removed them. Consequently, the thief ended up completely naked. The merchant then woke up his household members and captured the thief.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.