बालमोदिनी

कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक्त्यनुगुणं किमपि कृत्वा जीवन्तु भवन्तः' इति । चत्वारः अपि लज्जया शिरः‌ अवनमय्य ग्रामं प्रति गतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A storyteller father passed away, leaving his four uneducated sons. The king arranged for them to narrate a story, but upon seeing the royal court, the brothers lost their courage and spoke only one sentence each. The wise queen defended them by explaining their words. Afterward, she advised them, ‘Live according to your abilities". Embarrassed, the brothers returned to their village.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.