बालमोदिनी

कस्मिंश्चित् कुटुम्बे पुत्रः माता पिता चेति त्रयः‌ सदस्याः आसन् । पुत्रः‌ रामः यद्यपि अध्ययने निपुणः तथापि कदापि किमपि कार्यं‌ न करोति स्म । विवाहोत्तरमपि सः तथैव आसीत् । तस्य पत्नी उमा बुद्धिमती व्यवहारकुशला च आसीत् । अल्पे एव काले पिता दिवं गतः । तथापि रामः कार्ये धनसम्पादने वा प्रवृत्तः न जातः । माता स्नुषा च मिलित्वा कमपि उपायं कृत्वा रामस्य कर्तव्यं किम् इति ज्ञापयतः । ततः सः परिश्रमपूर्वकं धनसम्पादने उद्युक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a family, there were three members: a son, his mother, and his father. The son, Rama, was good at studies but never did any work. Even after marriage, he remained the same. His wife, Uma, was intelligent and practical. After some time, Rama’s father passed away, but Rama still did not try to work or earn money. Then his mother and wife together found a way to make him understand his responsibilities. After that, Rama began to work hard and started earning money.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.