बालमोदिनी

कश्चन महात्मा सर्वसङ्गपरित्यागी इति ख्यातः आसीत् । धनादिषु अल्पा अपि आसक्तिः न आसीत्  । कदाचित् प्रयाणावसरे नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः कश्चन श्रेष्ठी वणिक् महात्मनः पादौ अस्पृशत् ।  झटिति एव महात्मा अपि श्रेष्ठिनः पादौ अस्पृशत् । आश्चर्यान्वितः श्रेष्ठी 'भवादृशेन महात्यागिना सर्वसङ्गपरित्यागिना च किमर्थं मम पादौ स्पृष्टौ ?’ इति पृष्टे महात्मा अवदत् 'मया तु लौकिकमातापित्रोः सङ्गः परित्यक्तः । किन्तु भवता जगतः पित्रोः एव सङ्गः परित्यक्तः । अतः महात्यागी भवान् एव, न तु अहम्' । एतत् श्रुत्वा लज्जां प्राप्तवान् श्रेष्ठी स्वस्य दोषम् अङ्गीकृत्य महात्मनः अनुयायी जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

There was a great saint known for renouncing all attachments. He had no attachment to wealth or any other material possessions. Once, while traveling through the city, a wealthy merchant came towards him and touched his feet. Immediately, the saint also touched the merchant's feet. The surprised merchant asked, 'Why did a great renunciant like you touch my feet?' The saint replied, 'I have renounced the attachment to worldly parents, but you have renounced the attachment to the parents of the world. Hence, you are the true renunciant, not I'. Hearing this, the merchant felt ashamed, acknowledged his mistake, and became the disciple of the saint.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.