बालमोदिनी

कदाचित् आखेटाय गतवता चन्दनपुरस्य दयावता राज्ञा उसमानेन किञ्चिदपि न लब्धम् । पिपासया व्याकुलेन तेन कुत्रापि जलं न प्राप्तम् । सः भूमौ पतितः । कश्चन कृषिकः राजानं गृहम् आनाय्य जलभोजनादिकम् अयच्छत् । कृषकस्य सेवातः सन्तुष्टः राजा तस्मै किमपि दातुम् ऐच्छत् । यदि किमपि आवश्यकं भविष्यति तर्हि भवतः प्रासादम् आगमिष्यामि इति उक्तवान् कृषकः । अग्रे कदाचित् राजा हस्तौ उपरि गगनदिशि प्रसार्य 'कुरान' नामकस्य धर्मग्रन्थस्य पठनं करोति स्म, तदा कृषकः आगच्छत् । भगवन्तं सुखशान्त्यादिकं याचन्तं राजानं दृष्ट्वा कृषकः अवदत् 'भवान् अपि मत्सदृशः कश्चन याचकः एव । याचकः याचकं न याचेत् । अतः अहं किमपि भवन्तं न याचामि' इत्युक्त्वा ततः निर्गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, the compassionate king Usman of Chandanapura went hunting but found nothing. Overcome with thirst, he collapsed, unable to find water. A farmer brought him home and offered food and drink. Grateful, the king wished to reward him. The farmer replied, “If ever I need something, I will come to your palace”. Later, when the king was reading the holy book Qur’an, raising his hands to the sky and praying for peace and happiness, the farmer arrived. Seeing the king himself as a supplicant before God, the farmer said: “You are also a beggar like me. A beggar should not beg from another beggar. Therefore, I will not ask you for anything.” Saying this, he departed.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.