बालमोदिनी

एकदा धारायाः अधिपतेः भोजस्य सभायां दूरदेशात् कश्चन पण्डितः आगत्य एकां समस्यां प्रस्तुतवान् । किन्तु पण्डितेषु श्रेष्ठः वाग्विभूषणः अपि उत्तरं दातुं न शक्तवान् । अतिथिपण्डितेन सप्ताहं यावत् समयः दत्तः । तावता श्रेष्ठः पण्डितः वाग्विभूषणः समस्यायाः परिहारं स्वयमेव अन्विषति उत अन्येन उत्तरं प्राप्यते ? कः सः प्रश्नः? तस्य उत्तरं किं भवितुम् अर्हति? इति सर्वैः कथां श्रुत्वा ज्ञायताम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a scholar from a distant land came to King Bhoja's palace and presented a riddle. Since none of the king’s scholars were able to answer, the scholar gave them a week's time to find the solution. Will one of the king's greatest scholars, named Vagvibhushana, find the solution on his own or with the help of others? Let us listen to the story and find out.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.